दैवीं वाचमजनयन्त देवास्तां विश्वरूपा पशवो वदन्ति ।

सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्ठुतैतु ॥

लौकिकन्यायाः

अन्धपरम्परा

    यदा कोऽपि जनः स्वबुद्ध्या अविचार्य अन्धः इव अन्येषाम् अनुकरणं करोति तदा एषः न्यायः प्रयुज्यते । सः न चिन्तयति यत् अनुकरणं स् स्वम् अन्धकारं प्रति नयति इति ।

अरुन्धतीदर्शनन्यायः

    यः अरुन्धतीनामकं तारकं प्रदर्शयितुम् इच्छति सः पूर्वम् अरुन्धत्याः समीपस्थं स्थूलम् अमुख्यं तारकं निर्दिशति । पश्चात् अरुन्धतीं ग्राह्यति । एवं यदा सूक्ष्मः पदार्थः स्थूलेन पदार्थेन निर्दिश्यते तदा एषः न्यायः प्रयुज्यते ।

स्थालीपुलाकन्यायः

    यः ओदनं पचति सः ओदनः पक्वः न वा इति ज्ञातुं स्थाल्यां विद्यमानेभ्यः पुलाककणेभ्यः कमपि एकं सङ्गृह्य परिक्षते । एकस्य कणस्य परीक्षणेन एव सर्वस्य ज्ञानं भवति । अत्र प्रत्येकं कणस्य परीक्षणस्य आवश्यकता न भवति । एवं परीक्षणविषयकीं व्यक्तिं निर्देष्टुम् एषः न्यायः प्रयुज्यते ।

काकतालीयन्यायः

कश्चित् काकः यदा तलवृक्षस्य समीपम् आगच्छत् तदा एव तस्मात् वृक्षात् पक्वं फलं अधः न्यपतत् । काकः तच्च फलं खादित्वा सन्तुष्टः अभवत् । एवम् अकस्मादेव अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते तदा एषः न्यायः प्रयुज्यते ।

घट्टकुटीप्रभातन्यायः

    कथ्यते यत् शकटवान् वणिकः कश्चन करं दातुं न इच्छति स्म । राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठद्भ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा सः तं मार्गं परिहरन् केनचित् दुर्गमेण मार्गेण रात्रौ प्रस्थितः । किन्तु इतस्ततः अटन् सः दौर्भाग्येन प्रभाते घट्टाकुटीसमीपम् एव आगत्य अतिष्ठत् । विवशः सः करं दत्तवान् । कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तत् अन्ततो गत्वा यदा अवशं करणीयं भवति तदा एषः न्यायः प्रयुज्यते ।

शास्त्राध्यापनं कथं वा स्यात्


 शास्त्राध्यापनं कथम् वा भवेत् ।
संस्कृते शास्त्राध्ययनं अध्यापनं वा द्वयमपि विशेषतामवहति।
प्रप्रथमतया किमर्थं शास्त्राध्ययनं अध्यापनञ्चेति स्पष्टकल्पना स्यात् द्वयोः।
तत्र अध्यापयितुः कुशलतायाः प्रभावः अध्येतुः अध्ययने प्रतिबिम्बतीत्यत्र नास्ति संशयः। संस्कृते एकस्य शास्त्रस्य अध्यापने अध्यापयितुः अन्येषां बहूनामपि शास्त्राणां ज्ञानमवश्यं स्यात्।तत्र विशेषतया व्याकरणज्ञानमनिवार्यम्।तस्माद्विनापि शास्त्रमध्यापयेत् किञ्च प्रभावशालि पाठनं भवतीति ममाशयः यतः संस्कृते प्रत्येकस्य शब्दस्यापि प्रयोगे एकः आशयः अवश्यं भवति सः आशयः तस्य शब्दस्य मूलज्ञानं नाम अन्यूनं प्रकृति-प्रत्ययज्ञानं विना सिध्यतीति कारणात्
संस्कृते शास्त्राणां रचना एवमेव अन्यशास्त्राणां सम्बन्धं विना न कृता । अनेनैव कारणेन स्यात् लुप्तानामपि ग्रन्थानां विषये वयं किञ्चिद्वा ज्ञातुं शक्ताः स्मः । सुविधेयं संस्कृतशास्त्राणामेव नान्येषाम् ।
उदाहरणार्थं यदि काव्यं पाठनीयमस्ति तर्हि तत्र विविध-छन्दोबद्धाः श्लोकाः भवन्ति प्रथमतया तेषां अन्वयस्य भावस्य   पाठने कोऽपि विशेषः श्रमः नापेक्षते सामान्यपरिश्रमेण तत्साधयितुं शक्येत किन्तु संस्कृते शास्त्राणि तन्नापेक्षन्ते । परोक्षेण प्रत्येके काव्येऽन्तर्गता बहवोऽन्यशास्त्रविषयाः निबद्धा भवन्ति तर्हि तेषामध्यापनं कथं वा स्यादिति पृष्टे सति उपर्युक्तं समाधानमत्र अन्वेति नाम विशेषतया पाठः कथं स्यात् इत्युक्ते
प्रथमं तावत् श्लोकस्य निर्दोषं यदि शक्यते रागयुक्तं वा पठनम् । तदर्थं वर्णानामुच्चारणादिविषयाः ज्ञाताः स्युः ।             एषः भवति शिक्षाशास्त्रांशः ।
पश्चात्          श्लोकः कुतः इति ज्ञानं भवति एव तथापि कदाचित् श्लोकस्य भावे ग्रन्थस्य ग्रन्थकर्तुः ग्रन्थस्थ विशयस्य इत्यादिषु कस्य वा संबन्धः स्यात् तदन्विष्य विविधैः प्रश्नैः छात्रेभ्यः सः विषय आनेतव्यः तैरनुक्ते सति स्वयं अध्यापकः वदेत्
पश्चात्     श्लोकस्य सामान्यान्वयभावादीन् यथाशक्ति छात्रेभ्यः कारयन् अध्यापकः केवलं मार्गदर्शनं कुर्वन् अन्वयभावादिकं साधयति
अत्र       पुनः अन्वयलेखनसमये कदाचित् व्याकरणशास्त्रांन्तर्गतं कारकं पाठनीयं स्यात् सन्धयः समासाः विशेषशब्दानां व्युत्पत्तिः लिङ्गवचनविभक्तयः एते सर्वे चर्चनीयाः कदाचित् पाठनीयाः भवेयुः तदर्थं सज्जता करणीया
पश्चात्     विशेषार्थं प्रति मन्दं नयेत् अध्यापकः तत्र श्लोकस्य भावे अन्येषां शास्त्राणां विषयाः प्रायः स्युः यथा वैदिकः आयुर्वेदीयः वा नाट्यशास्त्रीयः वा शिल्पशास्त्रीयो वा न्यायवैशेषिकसाङ्ख्यतर्कमिमांसज्योतिषादिविषयः विषयाः वा स्युः तेऽप्यत्र सम्पादनीयाः । श्लोकस्य छन्दः किमिति प्रश्नः कुतः तदेव छन्दः प्रयुक्तः तत्र कदाचित् कोऽपि विशेषाशयः स्यात् सः कः इत्ति चर्चाद्वारा वा प्रश्नोत्तरपद्धत्या वा अत्र सम्पादनीयः।
पश्चात्     अलङ्कारविशेषः रसः च तयोः काव्यवस्तुनः सम्बन्धादयः अलङ्कारशास्त्रविषयाः च चर्चनीयाः ।
एवं क्रमेण प्रत्येकोप्यंशः संग्रहेण पाठनीयः भवति । क्रमः अन्यः भिन्नोपि वा स्यात् तत्तद्पाठ्यांशानुगुणम् शास्त्रानुगुणं वा किन्तु सर्वेंशाः केनचित् क्रमेण स्युः । तदैव साहित्यादीनां पाठनं सम्पद्यते । शास्त्रांतराः विषयाः अवश्यं पाठनीयाः भवन्ति संस्कृतशास्त्राध्यापने ।
शास्त्रं स्वयं एकं प्रसरमनुसरतिसः प्रसरः यदि अनुसर्यते तर्हि शास्त्राध्ययनाध्यापनकर्म सफलं सिध्यति । शास्त्रस्य समग्रं चित्रमपि मनसि सुव्यवस्थितरूपेण स्थितं स्यात् ।

एत एव न       
·       अत्यन्तः प्रमुखः अंशः अस्ति संपूर्णं यावच्छक्यं वा अध्यापनं संस्कृतमाध्यमेनैव स्यात् । अत्र नास्ति कोऽपि आपुष्टिः । यतः यया भाषया कृता रचना तयैव भाषया सम्यगवम्यते ।
·       पठनं प्रति उन्मुखीकरणमत्यंतावश्यकम् । यतः अत्र केषाञ्चित् शास्त्राणां पाठने कल्पनाशक्तिः उत्तमा स्यात् नो चेत् विषयः बुद्धिपथं अगत्वा अनवगमनाशङ्का भवेत् येन शास्त्राध्ययनमेव त्यजेत् शिक्षार्थी ।
·       अध्यापयितुः कक्ष्यायां व्यवहारः
·       अध्येतृभिः सह समन्वयसम्पादनम्
·       स्तरानुगुणं आरभ्य अपेक्षितस्तरं प्रति नेतुं प्रयत्नः ।
·       अध्ययनं रोचकं यथा बवेत् तथा नूतनानि विभिन्नानि उदाहरणानि सिद्धानि स्युः ।
·       जामीता यथा न स्यात् तथा यावच्छक्यं विषयाः उपस्थापनीयाः ।
·       अध्यापकः स्वानुभवेन पाठनसमये सम्भवान् सन्देहान् ऊहित्वा तेषां निवृत्त्यै सज्जतां कुर्यात् ।
·       अध्यापकस्यापेक्षया अभ्यासचर्चासमाधानान्वेषणादिषु छात्राणामेव परिश्रमः यथा अधिकः स्यात् तथा अध्यापकः मार्गदर्शनं कुर्यात्। कुतो नाम स्वयं साधितं मतौ स्थिरं तिष्ठति ।
·       अध्यापयितुः कण्ठध्वनिः अपि प्रभावशाली स्यात् ।
·       अनुशासनबद्धतापि स्यात् ।
·       संस्कृतं प्रति तच्छास्त्राणां प्रति सकारात्मको भावस्स्यात् ।
·       अध्यापकः अन्वेषणशीली स्यात् छात्रान् च तथा प्रेरयेत् ।
·       उत्साहः प्रवर्धमानः स्यात् अध्यापयितुः अध्येतुः च ।
·       साम्प्रदायमनुसरद्भिः शिक्षणे आधुनिकमनोवैज्ञानिकपद्धतयः अपि ज्ञातव्याः ।
·       संस्कृतशास्त्राः विश्वकल्याणाय एव इति भावना सदा स्मारणीया स्मरणीया च ।

एतावता न साधितं भवति अध्यापनम् । एवं क्रमेणापेक्षितसामर्थ्यानां सम्पादनेन साकं प्रायोगिकाभ्यासोपि कारणीयः । नूतनालोचनाः आह्वातव्याः । दैनन्दिने जीवने तस्यान्वयस्य पद्धतिः सूचनीया येन जीवनशौल्यां चिन्तने भाषणे व्यवहारादिषु च  यथा परिवर्तनमानेतुं श्क्येत । अस्माकं शास्त्रपरम्परा पठनपाठनयोः एव एकस्मादन्यं प्रति प्रसार्यमाना आसीत् । सा परम्परा अध्येतृभिः अवश्यं अनुसरणीयेति अपेक्षा तेषु कल्पयेत् ।
यथा बीजस्तथा वृक्षः । अतः अध्येतॄणां मनस्सु बीजं वपन्तः अध्यापकाः बह्व्या जागरूकतया तत्साधयेयुः येन निरोगी वृक्षः प्रभवेत्तस्मात् ।